2026-03-04 05:40:04 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>आत्मबोधः ।
६३</ignore>
<verse>तत्त्वस्वरूपानुभवादुत्पन्नं ज्ञानमञ्जसा ।
अहं ममेति चाज्ञानं बाधते दिग्भ्रमादिवत् ॥ ४६ ॥
</verse>
<verse>सम्यग्विज्ञानवान्योगी स्वात्मन्येवाखिलं स्थितम् ।
एकं च सर्वमात्मानमीक्षते ज्ञानचक्षुषा ॥ ४७ ॥
</verse>
<verse>आत्मैवेदं जगत्सर्वमात्मनोऽन्यन्न किंचन ।
मृदो यद्वावद्घटादीनि स्वात्मानं सर्वमीक्षते ॥ ४८ ॥
</verse>
<verse>जीवन्मुक्तस्तु तद्विद्वान्पूर्वोपाधिगुणांस्त्यजेत् ।
स सच्चिदादिधर्मत्वं भेजे भ्रमरकीटवत् ॥ ४९ ॥
aa</verse>
<verse>तीर्त्वा महार्णवं हत्वा रागद्वेषादिराक्षसान् ।
योगी शान्तिसमायुक्त आत्मा रामो विराजते ॥ ५० ॥
</verse>
<verse>बाह्यानित्यसुखासक्तिं हित्वात्मसुखनिर्वृतः ।
घटस्थदीपवच्छश्वदन्तरेव प्रकाशते ॥ ५१ ॥
</verse>
<verse>उपाधिस्थोऽपि तद्धर्मैरलिप्तो व्योमवन्मुनिः ।
सर्वविन्मूढवत्तिष्ठेदसत्क्तो वायुवच्चरेत् ॥ ५२ ॥
</verse>
<verse>उपाधिविलयाद्विष्णौ निर्विशेषं विशेन्मुनिः ।
जले जलं वियद्वव्योम्नि तेजस्तेजसि वा यथा ॥ ५३ ॥
६३
</verse>
</page>
<ignore>आत्मबोधः ।
६३</ignore>
<verse>तत्त्वस्वरूपानुभवादुत्पन्नं ज्ञानमञ्जसा ।
अहं ममेति चाज्ञानं बाधते दिग्भ्रमादिवत् ॥ ४६ ॥
<verse>सम्यग्विज्ञानवान्योगी स्वात्मन्येवाखिलं स्थितम् ।
एकं च सर्वमात्मानमीक्षते ज्ञानचक्षुषा ॥ ४७ ॥
<verse>आत्मैवेदं जगत्सर्वमात्मनोऽन्यन्न किंचन ।
मृदो यद्
<verse>जीवन्मुक्तस्तु तद्विद्वान्पूर्वोपाधिगुणांस्त्यजेत् ।
स सच्चिदादिधर्मत्वं भेजे भ्रमरकीटवत् ॥ ४९ ॥
aa
<verse>तीर्त्वा महार्णवं हत्वा रागद्वेषादिराक्षसान् ।
योगी शान्तिसमायुक्त आत्मा रामो विराजते ॥ ५० ॥
<verse>बाह्यानित्यसुखासक्तिं हित्वात्मसुखनिर्वृतः ।
घटस्थदीपवच्छश्वदन्तरेव प्रकाशते ॥ ५१ ॥
<verse>उपाधिस्थोऽपि तद्धर्मैरलिप्तो व्योमवन्मुनिः ।
सर्वविन्मूढवत्तिष्ठेदस

जले जलं वियद्
६३
</page>