2026-02-24 05:23:08 by ambuda-bot
This page has not been fully proofread.
आत्मबोधः ।
तत्त्वस्वरूपानुभवादुत्पन्नं ज्ञानमञ्जसा ।
अहं ममेति चाज्ञानं बाधते दिग्भ्रमादिवत् ॥ ४६ ॥
सम्यग्विज्ञानवान्योगी स्वात्मन्येवाखिलं स्थितम् ।
एकं च सर्वमात्मानमीक्षते ज्ञानचक्षुषा ॥ ४७ ॥
आत्मैवेदं जगत्सर्वमात्मनोऽन्यन्न किंचन ।
मृदो यद्वादीनि स्वात्मानं सर्वमीक्षते ॥ ४८ ॥
जीवन्मुक्तस्तु तद्विद्वान्पूर्वोपाधिगुणांस्त्यजेत् ।
स सच्चिदादिधर्मत्वं भेजे भ्रमरकीटवत् ॥ ४९ ॥
aa महार्णवं हत्वा रागद्वेषादिराक्षसान् ।
योगी शान्तिसमायुक्त आत्मा रामो विराजते ॥ ५० ॥
बाह्यानित्यसुखासक्तिं हित्वात्मसुखनिर्वृतः ।
घटस्थदीपवच्छश्वदन्तरेव प्रकाशते ॥ ५१ ॥
उपाधिस्थोऽपि तद्धर्मैरलिप्तो व्योमवन्मुनिः ।
सर्वविन्मूढवत्तिष्ठेदसत्तो वायुवच्चरेत् ॥ ५२ ॥
उपाधिविलयाद्विष्णौ निर्विशेषं विशेन्मुनिः ।
जले जलं वियद्वयोनि तेजस्तेजसि वा यथा ॥ ५३ ॥
६३