2026-03-04 05:37:36 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>६२
</ignore>
<ignore>आत्मबोधः ।
</ignore>
<verse>विविक्तदेश आसीनो विरागो विजितेन्द्रियः ।
भावयेदेकमात्मानं तमनन्तमनन्यधीः ॥ ३८ ॥
</verse>
<verse>आत्मन्येवाखिलं दृश्यं प्रविलाप्य धिया सुधीः ।
भावयेदेकमात्मानं निर्मलाकाशवत्सदा ॥ ३९ ॥
</verse>
<verse>रूपवर्णादिकं सर्ववं विहाय परमार्थवित् ।
परिपूर्णचिदानन्दस्वरूपेणावतिष्ठते ॥ ४० ॥
</verse>
<verse>ज्ञातृज्ञानज्ञेयभेदः परे नात्मनि विद्यते ।
चिदानन्दैकरूपत्वाद्दीप्यते स्वयमेव हि ॥ ४१ ॥
</verse>
<verse>एवमात्मारणौ ध्यानमथने सततं कृते ।
उदितावगतिज्वाला सर्वाज्ञानेन्धनं दहेत् ॥ ४२ ॥
</verse>
<verse>अरुणेनेव बोधेन पूर्ववं संतमसे हृते ।
तत आविर्भवेदात्मा स्वयमेवांशुमानिव ॥ ४३ ॥
</verse>
<verse>आत्मा तु सततं प्राप्तोऽप्यप्राप्तवदविद्यया ।
तन्नाशे प्राप्तवद्भाति स्वकण्ठाभरणं यथा ॥ ४४ ॥
</verse>
<verse>स्थाणौ पुरुषवद्भ्रान्त्या कृता ब्रह्मणि जीवता ।
जीवस्य तात्त्विके रूपे तस्मिन्दृष्टे निवर्तते ॥ ४५ ॥
</verse>
</page>
<ignore>६२
<ignore>आत्मबोधः ।
<verse>विविक्तदेश आसीनो विरागो विजितेन्द्रियः ।
भावयेदेकमात्मानं तमनन्तमनन्यधीः ॥ ३८ ॥
<verse>आत्मन्येवाखिलं दृश्यं प्रविलाप्य धिया सुधीः ।
भावयेदेकमात्मानं निर्मलाकाशवत्सदा ॥ ३९ ॥
<verse>रूपवर्णादिकं सर्
परिपूर्णचिदानन्दस्वरूपेणावतिष्ठते ॥ ४० ॥
<verse>ज्ञातृज्ञानज्ञेयभेदः परे नात्मनि विद्यते ।
चिदानन्दैकरूपत्वाद्दीप्यते स्वयमेव हि ॥ ४१ ॥
<verse>एवमात्मारणौ ध्यानमथने सततं कृते ।
उदितावगतिज्वाला सर्वाज्ञानेन्धनं दहेत् ॥ ४२ ॥
<verse>अरुणेनेव बोधेन पूर्