2026-03-04 05:33:21 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>६०
</ignore>
<ignore>आत्मबोधः ।
</ignore>
<verse>अज्ञानान्मानसोपाधेः कर्तृत्वादीनि चात्मनि ।
कल्प्यन्तेऽम्बुगते चन्द्रे चलनादि यथाम्भसः ॥ २२ ॥
</verse>
<verse>रागेच्छासुखदुःखादि बुद्धौ सत्यां प्रवर्तते ।
सुषुप्तौ नास्ति तन्नाशे तस्माद्बुद्धेस्तु नात्मनः ॥ २३ ॥
</verse>
<verse>प्रकाशोऽर्कस्य तोयस्य शैत्यमर्योग्नेर्यथोष्णता ।
स्वभावः सच्चिदानन्दनित्यनिर्मलतात्मनः ॥ २४ ॥
</verse>
<verse>आत्मनः सच्चिददंशश्च बुद्धेर्वृत्तिरिति द्वयम् ।
संयोज्य चाविवेकेन जानामीति प्रवर्तते ॥ २५ ॥
</verse>
<verse>आत्मनो विक्रिया नास्ति बुद्धेर्बोधो न जात्विति ।
जीवः सर्वमलं ज्ञात्वा ज्ञाता द्रष्टेति मुह्यति ॥ २६ ॥
</verse>
<verse>रज्जुसर्पवदात्मानं जीवं ज्ञात्वा भयं वहेत् ।
नाहं जीवः परात्मेति ज्ञातश्चेन्निर्भयो भवेत् ॥ २७ ॥
</verse>
<verse>आत्मावभासयत्येको बुद्धध्यादीनीन्द्रियाणि हि ।
दीपो घटादिवत्स्वात्मा जडैस्तैर्नावभास्यते ॥ २८ ॥
</verse>
<verse>स्वबोधे नान्यबोधेच्छा बोधरूपतयात्मनः ।
न दीपस्यान्यदीपेच्छा यथा स्वात्मप्रकाशने ॥ २९ ॥
</verse>
</page>
<ignore>६०
<ignore>आत्मबोधः ।
<verse>अज्ञानान्मानसोपाधेः कर्तृत्वादीनि चात्मनि ।
कल्प्यन्तेऽम्बुगते चन्द्रे चलनादि यथाम्भसः ॥ २२ ॥
<verse>रागेच्छासुखदुःखादि बुद्धौ सत्यां प्रवर्तते ।
सुषुप्तौ नास्ति तन्नाशे तस्माद्बुद्धेस्तु नात्मनः ॥ २३ ॥
<verse>प्रकाशोऽर्कस्य तोयस्य शैत्यम
स्वभावः सच्चिदानन्दनित्यनिर्मलतात्मनः ॥ २४ ॥
<verse>आत्मनः सच्चि
संयोज्य चाविवेकेन जानामीति प्रवर्तते ॥ २५ ॥
<verse>आत्मनो विक्रिया नास्ति बुद्धेर्बोधो न जात्विति ।
जीवः सर्वमलं ज्ञात्वा ज्ञाता द्रष्टेति मुह्यति ॥ २६ ॥
<verse>रज्जुसर्पवदात्मानं जीवं ज्ञात्वा भयं वहेत् ।
नाहं जीवः परात्मेति ज्ञातश्चेन्निर्भयो भवेत् ॥ २७ ॥
<verse>आत्मावभासयत्येको बुद्