2026-03-04 03:20:27 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>५४
</ignore>
<ignore>स्वात्मनिरूपणम् ।
</ignore>
<verse>गुरुकरुणयैव नावा प्राक्तनभाग्यानुकूलमारुतया ।
दुः सहदुःखतरङ्गैस्तुङ्गः संसारसागरस्तीर्णः ॥ १५१ ॥
</verse>
<verse>सति तमसि मोहरूपे विश्वमपश्यं तदेतदित्यखिलम् ।
उदितवति बोधभानौ किमपि न पश्यामि किं न्विदं चित्रम् ॥
</verse>
<verse>इत्यात्मबोधलाभं मुहुरनुचिन्त्य प्रमोदमानेन ।
प्रारब्धकर्मणोऽन्ते परं पदं प्राप्यते हि कैवल्यम् ॥ १५३ ॥
</verse>
<verse>मोहान्धकारहरणं संसारोद्वेलसागरोत्तरणम् ।
स्वात्मनिरूपणमेतत्प्रकरणमन्तर्विचिन्त्यतां सद्भिः ॥
</verse>
<trailer>श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्द भगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
स्वात्मनिरूपणं संपूर्णम् ॥
</trailer>
</page>
<ignore>५४
<ignore>स्वात्मनिरूपणम् ।
<verse>गुरुकरुणयैव नावा प्राक्तनभाग्यानुकूलमारुतया ।
दुः

श्रीगोविन्द
श्रीमच्छंकरभगवतः कृतौ
स्वात्मनिरूपणं संपूर्णम् ॥
</page>