2026-03-04 04:00:13 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>४८
</ignore>
<ignore>स्वात्मनिरूपणम् ।
</ignore>
<verse>असकृदनुचिन्तितानामव्याहततरनिजोपदेशानाम् ।
प्रामाण्यपरमसीम्नां निगमनमिदमेव निखिलनिगमानाम् ॥
</verse>
<verse>इति बोधितः स गुरुणा शिष्यो हृष्टः प्रणम्य तं पदयोः ।
स्वानुभवसिद्धमर्थं स्वयमेवान्तर्विचारयामास ॥ १०४ ॥
</verse>
<verse>अजरोऽहमक्षरोऽहं प्राज्ञोऽहं प्रत्यगात्मबोधोऽहम् ।
परमानन्दमयोऽहं परम शिवोऽहं भवामि परिपूर्ण: ॥
णः ॥</verse>
<verse>आद्योऽहमात्मभाजामात्मानन्दानुभूतिरसिकोऽहम् ।
आबालगोपमखिलैरहमित्यनुभूयमानमहिमाहम् ॥ १०६ ॥
</verse>
<verse>इहपरसुखविमुखोऽहं निजसुखबोधानुभूतिभरितोऽहम् ।
इतिमतिदूरतरोऽहं भावेतरसुखनिषक्तचित्तोऽहम् ॥
</verse>
<verse>ईशोऽहमीश्वराणामर्थ्मीर्ष्याद्वेषानुषङ्गरहितोऽहम् ।
ईक्षणविषयमतीनामीप्सितपुरुषार्थसाधनपरोऽहम् ॥
</verse>
<verse>उदयोऽहमेव जगतामुपनिषदुद्यानकृतविहारोऽहम् ।
उद्वेलशोकसागरबाडबमुखहव्यवाहनाचिरहम् ॥ १०९ ॥
</verse>
<verse>ऊर्जस्वलनिजविभवैरूर्ध्वमधस्तिर्यगश्नुवानोऽहम् ।
ऊहापोहविचारैरुररीकृतवत्प्रतीयमानोऽहम् ॥ ११० ॥
</verse>
</page>
<ignore>४८
<ignore>स्वात्मनिरूपणम् ।
<verse>असकृदनुचिन्तितानामव्याहततरनिजोपदेशानाम् ।
प्रामाण्यपरमसीम्नां निगमनमिदमेव निखिलनिगमानाम् ॥
<verse>इति बोधितः स गुरुणा शिष्यो हृष्टः प्रणम्य तं पदयोः ।
स्वानुभवसिद्धमर्थं स्वयमेवान्तर्विचारयामास ॥ १०४ ॥
<verse>अजरोऽहमक्षरोऽहं प्राज्ञोऽहं प्रत्यगात्मबोधोऽहम् ।
परमानन्दमयोऽहं परम
<verse>आद्योऽहमात्मभाजामात्मानन्दानुभूतिरसिकोऽहम् ।
आबालगोपमखिलैरहमित्यनुभूयमानमहिमाहम् ॥ १०६ ॥
<verse>इहपरसुखविमुखोऽहं निजसुखबोधानुभूतिभरितोऽहम् ।
इतिमतिदूरतरोऽहं भावेतरसुखनिषक्तचित्तोऽहम् ॥
<verse>ईशोऽहमीश्वराणा