2026-03-04 03:57:42 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>स्वात्मनिरूपणम् ।
</ignore>
<ignore>४७
</ignore>
<verse>आत्ममये महति पटे विविधजगच्चित्रमात्मना लिखितम् ।
स्वयमेव केवलमसौ पश्यन्प्रमुदं प्रयाति परमात्मा ॥ ९५ ॥
</verse>
<verse>चिन्मात्रममलमक्षयमद्वयमानन्दमनुभवारूढम् ।
ब्रह्मैवास्ति तदन्यन्न किमप्यस्तीति निश्चयो विदुषाम् ॥
</verse>
<verse>व्यवहारस्य दशेयं विद्याविद्येति भेदपरिभाषा ।
नास्त्येव तत्त्वदृष्ट्या तत्त्वं ब्रह्मैव नान्यदस्त्यस्मात् ॥ ९७ ॥
</verse>
<verse>अस्त्यन्यदिति मतं चेत्तदपि ब्रह्मैतदस्तितारूपम् ।
व्यतिरिक्तमस्तिताया नास्तितया शून्यमेव तत्सिद्धम् ॥
</verse>
<verse>तत्त्वावबोधशक्त्या सुस्थितया बाधितापि सा माया ।
आदेहपातमेषामाभात्यात्मानमपि निजं विदुषाम् ॥ ९९ ॥
</verse>
<verse>एष विशेषो विदुषां पश्यन्तोऽपि प्रपञ्चसंसारम् ।
पृथगात्मनो न किंचित्पश्येयुः सकलनिगमनिर्णीतात् ॥
</verse>
<verse>किं चिन्त्यं किमचिन्त्यं किं कथनीयं किमप्यकथनीयम् ।
किं कृत्यं किमकृत्यं निखिलं ब्रह्मेति जानतां विदुषाम् ॥
</verse>
<verse>निखिलं दृश्यविशेषं दृग्रूपत्वेन पश्यतां विदुषाम् ।
बन्धो नापि न मुक्तिर्न परात्मत्वं न चापि जीवत्वम् ॥
</verse>
</page>