2026-03-04 03:44:30 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>स्वात्मनिरूपणम् ।
</ignore>
<ignore>४५
</ignore>
<verse>यस्मान्न सोऽयमसतो वादः संभवति शास्त्रयुक्तिभ्याम् ।
तस्मात्सदेव तत्त्वं सर्वेषां भवति कारणं जगताम् ॥ ७९ ॥
</verse>
<verse>जगदाकारतयापि प्रथते गुरुशिष्यविग्रहतयापि ।
ब्रह्माकारतयापि प्रतिभातीदं परात्परं तत्त्वम् ॥ ८० ॥
</verse>
<verse>सत्यं जगदिति भानं संसृतये स्यादपक्कवचित्तानाम् ।
तस्मादसत्यमेतन्निखिलं प्रतिपादयन्ति निगमान्ताः ॥
</verse>
<verse>परिपक्कवमानसानां पुरुषवराणां पुरातनैः सुकृतैः ।
बृह्मैवेदं सर्वं जगदिति भूयः प्रबोधयत्येषः ॥ ८२ ॥
</verse>
<verse>अनवगतकाञ्चनानां भूषणधीरेव भूषणे है मे ।
एवमविवेकभाजां जगति जनानां न तात्त्विकी धिषणा ॥
</verse>
<verse>अहमालम्बनसिद्धं कस्य परोक्षं भवेदिदं ब्रह्म ।
तदपि विचारविहीनैरपरोक्षयितुं न शक्यते मुग्धैः ॥
</verse>
<verse>अहमिदमिति च मतिभ्यां सततं व्यवहरति सर्वलोकोऽपि ।
प्रथमा प्रतीचि चरमा निवसति वपुरिन्द्रियादिबाह्यार्थे ॥
</verse>
<verse>वपुरिन्द्रियादिविषये याहंबुद्धिर्महत्यसौ भ्रान्तिः ।
तद्बुद्धिरतस्मिन्नित्यध्यासत्वेन शास्यमानत्वात् ॥ ८६ ॥
</verse>
</page>
<ignore>स्वात्मनिरूपणम् ।
<ignore>४५
<verse>यस्मान्न सोऽयमसतो वादः संभवति शास्त्रयुक्तिभ्याम् ।
तस्मात्सदेव तत्त्वं सर्वेषां भवति कारणं जगताम् ॥ ७९ ॥
<verse>जगदाकारतयापि प्रथते गुरुशिष्यविग्रहतयापि ।
ब्रह्माकारतयापि प्रतिभातीदं परात्परं तत्त्वम् ॥ ८० ॥
<verse>सत्यं जगदिति भानं संसृतये स्यादपक्
तस्मादसत्यमेतन्निखिलं प्रतिपादयन्ति निगमान्ताः ॥
<verse>परिपक्
बृह्मैवेदं सर्वं जगदिति भूयः प्रबोधयत्येषः ॥ ८२ ॥
<verse>अनवगतकाञ्चनानां भूषणधीरेव भूषणे है