2026-03-04 03:41:52 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>४४
</ignore>
<ignore>स्वात्मनिरूपणम् ।
</ignore>
<verse>ज्ञानं तदेवममलं साक्षी विश्वस्य भवति परमात्मा ।
संबध्यते न धर्मैः साक्षी तैरेव सच्चिदानन्दः ॥ ७१ ॥
</verse>
<verse>रज्ज्वादेरुरगाद्यैः संबन्धवदस्य दृश्यसंबन्ध: ।
धः ।
सततमसङ्गोऽयमिति श्रुतिरप्यमुमर्थमेव साधयति ॥
</verse>
<verse>कर्तृ च कर्म च यस्य स्फुरति ब्रह्मैव तन्न जानाति ।
यस्य न कर्तृ न कर्म स्फुटतरमयमेव वेदितुं क्रमते ॥
</verse>
<verse>कर्तृत्वादिकमेतन्मायाशक्त्या प्रपद्यते निखिलम् ।
इति केचिदाहुरेषा भ्रान्तिर्ब्रह्मातिरेकतो नान्यत् ॥ ७४ ॥
</verse>
<verse>तस्मिन्ब्रह्मणि विदिते विश्वमशेषं भवेदिदं विदितम् ।
कारणमृदि विदितायां घटकरकाद्या यथावगम्यन्ते ॥
</verse>
<verse>तदिदं कारणमेकं विगतविशेषं विशुद्धचिद्ररूपम् ।
तस्मात्सदेकरूपान्मायोपहितादभूदिदं विश्वम् ॥ ७६ ॥
</verse>
<verse>कारणमसदिति केचित्कथयन्त्यसतो भवेन्न कारणता ।
अङ्ककुरजननी शक्तिः सति खलु बीजे समीक्ष्यते सकलैः ॥
</verse>
<verse>कारणमसदिति कथयन्वन्ध्यापुत्रेण निर्वहेत्कार्यम् ।
किं च मृगतृष्णिकाम्भः पीत्वोदन्यां महीयसीं शमयेत् ॥
</verse>
</page>
<ignore>४४
<ignore>स्वात्मनिरूपणम् ।
<verse>ज्ञानं तदेवममलं साक्षी विश्वस्य भवति परमात्मा ।
संबध्यते न धर्मैः साक्षी तैरेव सच्चिदानन्दः ॥ ७१ ॥
<verse>रज्ज्वादेरुरगाद्यैः संबन्धवदस्य दृश्यसंबन्
सततमसङ्गोऽयमिति श्रुतिरप्यमुमर्थमेव साधयति ॥
<verse>कर्तृ च कर्म च यस्य स्फुरति ब्रह्मैव तन्न जानाति ।
यस्य न कर्तृ न कर्म स्फुटतरमयमेव वेदितुं क्रमते ॥
<verse>कर्तृत्वादिकमेतन्मायाशक्त्या प्रपद्यते निखिलम् ।
इति केचिदाहुरेषा भ्रान्तिर्ब्रह्मातिरेकतो नान्यत् ॥ ७४ ॥
<verse>तस्मिन्ब्रह्मणि विदिते विश्वमशेषं भवेदिदं विदितम् ।
कारणमृदि विदितायां घटकरकाद्या यथावगम्यन्ते ॥
<verse>तदिदं कारणमेकं विगतविशेषं विशुद्धचिद्
तस्मात्सदेकरूपान्मायोपहितादभूदिदं विश्वम् ॥ ७६ ॥
<verse>कारणमसदिति केचित्कथयन्त्यसतो भवेन्न कारणता ।
अङ्