2026-03-04 03:39:41 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>स्वात्मनिरूपणम् ।
४३</ignore>
<verse>तस्मात्परं स्वकीयं देहं मोहात्मकं च संसारम् ।
स्वज्ञानेन ग्रसित्वा पूर्णः स्वयमेव शिष्यते नान्यत् ॥
४३
</verse>
<verse>सत्यं ज्ञानमनन्तं प्रकृतं परमात्मरूपमद्वैतम् ।
अवबोधयन्ति निखिलाः श्रुतयः स्मृतिभिः समं समस्ताभिः ॥
</verse>
<verse>अद्वैतबोधकानां निखिलानां निगमवाक्यजालानाम् ।
वाक्यान्तराणि सकलान्यभिधीयन्तेऽस्य शेषभूतानि ॥
</verse>
<verse>यस्मिन्महिरवदुदिते तिमिरवदपयान्ति कर्तृतादीनि ।
ज्ञानं विरहितभेदं कथमिव तद्भवति तत्त्वमस्यादेः ॥
</verse>
<verse>कर्मप्रकरणनिष्ठं ज्ञानं कर्माङ्गमिष्यते प्राज्ञैः ।
भिन्नप्रकरणभाजः कर्माङ्गत्वं कथं भवेज्ज्ञप्तेः ॥ ६७ ॥
</verse>
<verse>अधिकारिविषयभेदौ कर्मज्ञानात्मकावुभौ काण्डौ ।
एवं सति कथमनयोरङ्गाङ्गित्वं परस्परं घटते ॥ ६८ ॥
</verse>
<verse>ज्ञानं कर्मणि न स्याज्ज्ञाने कर्मेदमपि तथा न स्यात् ।
तत्कथमनयोरुभयोस्तपनतमोवत्समुच्चयो घटते ॥ ६९ ॥
</verse>
<verse>तस्मान्मोहनिवृत्तौ ज्ञानं न सहायमन्यदर्थयते ।
यद्वद्भूघनतरतिमिरप्रकरपरिध्वंसने सहस्रांशुः ॥ ७० ॥
</verse>
</page>

यद्वद्
</page>