This page has not been fully proofread.

४२
 
स्वात्मनिरूपणम् ।
 
अद्वैतं सुखरूपं दुःसहदुःखं सदा भवेद्वैतम् ।
 
यत्र प्रयोजनं स्यात्प्रतिपादयति श्रुतिस्तदेवासौ ॥ ५५ ॥
 
निगमगिरा प्रतिपाद्यं वस्तु यदानन्दरूपमद्वैतम् ।
स्वाभाविकं स्वरूपं जीवत्वं तस्य केचन ब्रुवते ॥ ५६ ॥
 
स्वाभाविकं यदि स्याज्जीवत्वं तस्य विशद विज्ञप्तेः ।
सकृदपि न तद्विनाशं गच्छेदुष्णप्रकाशवद्वह्नेः ॥ ५७ ॥
 
यद्वदयो रसविद्धं काञ्चनतां याति तद्वदेवासौ ।
जीव: : साधनशक्त्या परतां यातीति केचिदिच्छन्ति ॥
 
तदिदं भवति न युक्तं गतवति तस्मिंश्चिरेण रसवीर्ये ।
प्रतिपद्यते प्रणाशं हैमो वर्णोऽप्ययः समारूढः ॥ ५९ ॥
जीवत्वमपि तथेदं बहुविधसुखदुः खलक्षणोपेतम् ।
गतमिव साधनशक्त्या प्रतिभात्येव प्रयाति न विनाशम् ॥
 
तस्मात्स्वतो यदि स्याज्जीवः सततं स एव जीवः स्यात् ।
एवं यदि परमात्मा परमात्मैवायमिति भवेद्युक्तम् ॥
 
यदि वा परेण साम्यं जीवश्चेद्भजति साधनबलेन ।
कालेन तदपि कियता नश्यत्येवेति निश्चितं सकलैः ॥