This page has been fully proofread once and needs a second look.

<page>
<ignore>
स्वात्मनिरूपणम् ।
 

४१</ignore>
<verse>
वेदोsनादिरमुष्य व्यञ्जक ईश:शः स्वयंप्रकाशात्मा ।

तदभिव्यक्तिमुदीक्ष्य प्रोक्तोऽसौ सूरिभिः प्रमाणमिति ॥
 
</verse>
<verse>
रूपाणामवलोके चक्षुरिवान्यन्न कारणं दृष्टम् ।

तद्वद
दृष्टावगतौ वेदवदन्यो न वेदको हेतुः ॥ ४८ ॥
 
</verse>
<verse>
निगमेषु निश्चितार्थं तन्त्रे कश्चिद्यदि प्रकाशयति ।

तदिदमनुवादमात्रं प्रामाण्यं तस्य सिध्यति न किंचित् ॥
 
४१
 
</verse>
<verse>
अंशद्वयवति निगमे साधयति द्वैतमेव कोऽप्यंश: ।
शः ।
अद्वैतमेव वस्तु प्रतिपादयति प्रसिद्धमपरोंऽशः ॥ ५० ॥
 
</verse>
<verse>
अद्वैतमेव सत्यं तस्मिन्द्वैतं न सत्यमध्यस्तम् ।

रजतमिव शुक्तिकायां मृगतृष्णायामिवोदकस्फुरणम् ॥
 
</verse>
<verse>
आरोपितं यदि स्यादद्वैतं वस्त्ववस्तुनि द्वैते ।

तदयुक्तमेव यस्मात्सत्येऽध्यासो भवत्यसत्यानाम् ॥ ५२ ॥
</verse>
<verse>
यद्यारोपणमुभयोस्तद्वद्व्यतिरिक्तस्य कस्यचिदभावात् ।

आरोपणं न शून्ये तस्मादद्वैतसत्यता ग्राह्या ॥ ५३ ॥
 
</verse>
<verse>
प्रत्यक्षाद्यनवगतं श्रुत्या प्रतिपादनीयमद्वैतम् ।
 

द्वैतं न प्रतिपाद्यं तस्य स्वत एव लोकसिद्धत्वात् ॥ ५४ ॥
 
</verse>
</page>