2026-03-04 03:27:12 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>४०
</ignore>
<ignore>स्वात्मनिरूपणम् ।
</ignore>
<verse>प्रायः प्रवर्तकत्वं विधिवचसां लोकवेदयोर्दृष्टम् ।
सिद्धं बोधयतोऽर्थथं कथमिव तद्भवति तत्त्वमस्यादेः ॥
</verse>
<verse>विधिरेव न प्रवृत्तिं जनयत्यभिलषितवस्तुबोधोऽपि ।
राजा याति सुतोऽभूदिति बोधेन प्रवर्तते लोकः ॥। ४० ॥
</verse>
<verse>ऐक्यपरैः श्रुतिवाक्यैरात्मा शश्वत्प्रकाश्यमानोऽपि ।
देशिकदयाविहीनैरपरोक्षयितुं न शक्यते पुरुषैः ॥ ४१ ॥
</verse>
<verse>विरहितकाम्यनिषिद्धो विहितानुष्ठान निर्मलस्वान्तः ।
भजति निजमेव बोधं गुरुणा किमिति त्वया न मन्तव्यम् ॥
</verse>
<verse>कर्मभिरेव न बोधः प्रभवति गुरुणा विना दयानिधिना ।
आचार्यवान्हि पुरुषो वेदेत्यर्थस्य वेदसिद्धत्वात् ॥ ४३ ॥
</verse>
<verse>वेदोsऽनादितया वा यद्वा परमेश्वरप्रणीततया ।
भवति परमं प्रमाणं बाधो नास्ति स्वतश्च परतो वा ॥
</verse>
<verse>नापेक्षते यदन्यद्यदपेक्षन्तेऽखिलानि मानानि ।
वाक्यं तन्निगमानां मानं ब्रह्माद्यतीन्द्रियावगतौ ॥ ४५ ॥
</verse>
<verse>मानं प्रबोधयन्तं बोधं मानेन ये बुभुत्सन्ते ।
एधोभिरेव दहनं दग्धुं वाञ्छन्ति ते महात्मानः ॥ ४६ ॥
</verse>
</page>
<ignore>४०
<ignore>स्वात्मनिरूपणम् ।
<verse>प्रायः प्रवर्तकत्वं विधिवचसां लोकवेदयोर्दृष्टम् ।
सिद्धं बोधयतोऽर्
<verse>विधिरेव न प्रवृत्तिं जनयत्यभिलषितवस्तुबोधोऽपि ।
राजा याति सुतोऽभूदिति बोधेन प्रवर्तते लोकः ॥। ४० ॥
<verse>ऐक्यपरैः श्रुतिवाक्यैरात्मा शश्वत्प्रकाश्यमानोऽपि ।
देशिकदयाविहीनैरपरोक्षयितुं न शक्यते पुरुषैः ॥ ४१ ॥
<verse>विरहितकाम्यनिषिद्धो विहितानुष्ठान
भजति निजमेव बोधं गुरुणा किमिति त्वया न मन्तव्यम् ॥
<verse>कर्मभिरेव न बोधः प्रभवति गुरुणा विना दयानिधिना ।
आचार्यवान्हि पुरुषो वेदेत्यर्थस्य वेदसिद्धत्वात् ॥ ४३ ॥
<verse>वेदो