This page has been fully proofread once and needs a second look.

<page>
<ignore>
स्वात्मनिरूपणम् ।
 

३९</ignore>
<verse>
प्रत्यक्त्वपरोक्षत्वे परिपूर्णत्वं च सद्वितीयत्वम् ।
 
३९
 

इतरेतरं विरुद्धं तत इह भवितव्यमेव लक्षणया ॥ ३१ ॥
 
</verse>
<verse>
मानान्तरोपरोधान्मुख्यार्थस्यापरिग्रहे जाते ।

मुख्याविनाकृतेऽर्थे या वृत्तिः सैव लक्षणा प्रोक्ता ॥ ३२ ॥
 
</verse>
<verse>
निखिलमपि वाच्यमर्थेथं त्यक्त्वा वृत्तिस्तदन्वितेऽन्यार्थे ।

जहतीति लक्षणा स्याद्गङ्गायां घोषवदिह न ग्राह्या ॥
 
</verse>
<verse>
वाच्यार्थमत्यजन्त्या यस्या वृत्तेः प्रवृत्तिरन्यार्थे ।

इयमजहतीति कथिता शोणो धावतिवदत्र न ग्राह्या ॥
 
</verse>
<verse>
जहदजहतीति सा खास्याद्या वाच्यार्थैकदेशमपहाय ।

बोधयति चैकदेशं सोऽयं द्विज इतिवदाश्रयेदेनाम् ॥
 
</verse>
<verse>
सोऽयं द्विज इति वाक्यं त्यक्त्वा प्रत्यक्परोक्षदेशाद्यम् ।

द्विजमात्रलक्षकत्वात्कथयत्यैक्यं पदार्थयोरुभयोः ॥ ३६ ॥
 
</verse>
<verse>
तद्वत्तत्त्वमसीति त्यक्त्वा प्रत्यक्परोक्षतादीनि ।

चिद्वस्तु लक्षयित्वा बोधयति स्पष्टमसिपदेनैक्यम् ॥
 
</verse>
<verse>
इत्थं बोधितमर्थं महता वाक्येन दर्शितैक्येन ।

अहमित्यपरोक्षयतां वेदो वेदयति वीतशोकत्वम् ॥ ३८ ॥
 
</verse>
</page>