2026-03-04 03:18:40 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>स्वात्मनिरूपणम् ।
</ignore>
<ignore>३७
</ignore>
<verse>अन्नमयादेरस्मादपरं यदि नानुभूयते किंचित् ।
अनुभवितान्नमयादेरस्तीत्यस्मिन्न कश्चिदपलापः ॥ १५ ॥
</verse>
<verse>स्वयमेवानुभवत्वाद्यद्यप्येतस्य नानुभाव्यत्वम् ।
सकृदप्यभावशङ्का न भवेद्बोधस्वरूपसत्तायाः ॥ १६ ॥
</verse>
<verse>अनुभवति विश्वमात्मा विश्वेनासौ न चानुभूयेत ।
न खलु प्रकाश्यतेऽसौ विश्वमशेषं प्रकाशयन्भानुः ॥
</verse>
<verse>तदिदं तादृशमीदृशमेतावत्तावदिति च यन्न भवेत् ।
ब्रह्म तदित्यवधेयं नो चेद्विषयो भवेत्परोक्षं च ॥ १८ ॥
</verse>
<verse>इदमिदमिति प्रतीते वस्तुनि सर्वत्र बाध्यमानेऽपि ।
अनिदमबाध्यं तत्त्वं सत्त्वादेतस्य न च परोक्षत्वम् ॥
</verse>
<verse>नावेद्यमपि परोक्षं भवति ब्रह्म स्वयंप्रकाशत्वात् ।
सत्यं ज्ञानमनन्तं ब्रह्मेत्येतस्य लक्षणं प्रथते ॥ २० ॥
</verse>
<verse>सति कोशशक्त्युपाधौ संभवतस्तस्य जीवतेश्वरते ।
नो चेत्तयोरभावाद्विगतविशेषं विभाति निजरूपम् ॥
</verse>
<verse>सति सकलदृश्यबाधे न किमप्यस्तीति लोकसिद्धं चेत् ।
यन्न किमपीति सिद्धं ब्रह्म तदेवेति वेदतः सिद्धम् ॥ २२ ॥
</verse>
</page>