2026-03-04 03:16:29 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>३६
</ignore>
<ignore>स्वात्मनिरूपणम् ।
</ignore>
<verse>न क्लेशपञ्चकमिदं भजते कृतकोशपञ्चकविवेकः ।
अत एव पञ्च कोशान्कुशलधियः संततं विचिन्वन्ति ॥
</verse>
<verse>अन्नप्राणमनोमयविज्ञानानन्दपञ्चकोशानाम् ।
एकैकान्तरभाजां भजति विवेकात्प्रकाशतामात्मा ॥ ८ ॥
</verse>
<verse>वपुरिदमन्नमयाख्यः कोशो नात्मा जडो घटप्रायः ।
प्रागुत्पत्तेः पश्चात्तदभावस्यापि दृश्यमानत्वात् ॥ ९ ॥
</verse>
<verse>कोशः प्राणमयोऽयं वायुविशेषो वपुष्यवच्छिन्नः ।
अस्य कथमात्मता स्यात्क्षुत्तृष्णाभ्यामुपेयुषः पीडाम् ॥
</verse>
<verse>कुरुते वपुष्यहंतां गेहादौ यः करोति ममतां च ।
रागद्वेषविधेयो नासावात्मा मनोमयः कोशः ॥ ११ ॥
</verse>
<verse>सुप्तौ स्वयं विलीना बोधे व्याप्ता कलेबरं सकलम् ।
विज्ञानशब्दवाच्या चित्प्रतिबिम्बो न बुद्धिरण्प्यात्मा ॥
</verse>
<verse>सुप्तिगतैः सुखलेशैरभिमनुते यः सुखी भवामीति ।
आनन्दकोशनामा सोऽहंकारः कथं भवेदात्मा ॥ १३ ॥
</verse>
<verse>यः स्फुरति बिम्बभूतः स भवेदानन्द एव सकलात्मा ।
प्रागूर्ध्वमपि च सत्त्वादविकारित्वादबाध्यमानत्वात् ॥
</verse>
</page>
<ignore>३६
<ignore>स्वात्मनिरूपणम् ।
<verse>न क्लेशपञ्चकमिदं भजते कृतकोशपञ्चकविवेकः ।
अत एव पञ्च कोशान्कुशलधियः संततं विचिन्वन्ति ॥
<verse>अन्नप्राणमनोमयविज्ञानानन्दपञ्चकोशानाम् ।
एकैकान्तरभाजां भजति विवेकात्प्रकाशतामात्मा ॥ ८ ॥
<verse>वपुरिदमन्नमयाख्यः कोशो नात्मा जडो घटप्रायः ।
प्रागुत्पत्तेः पश्चात्तदभावस्यापि दृश्यमानत्वात् ॥ ९ ॥
<verse>कोशः प्राणमयोऽयं वायुविशेषो वपुष्यवच्छिन्नः ।
अस्य कथमात्मता स्यात्क्षुत्तृष्णाभ्यामुपेयुषः पीडाम् ॥
<verse>कुरुते वपुष्यहंतां गेहादौ यः करोति ममतां च ।
रागद्वेषविधेयो नासावात्मा मनोमयः कोशः ॥ ११ ॥
<verse>सुप्तौ स्वयं विलीना बोधे व्याप्ता कलेबरं सकलम् ।
विज्ञानशब्दवाच्या चित्प्रतिबिम्बो न बुद्धिर