2026-03-04 03:10:53 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>वाक्यवृत्तिः ।
</ignore>
<verse>आलम्बनतया भाति योऽस्मत्प्रत्ययशब्दयोः ।
अन्तःकरणसंभिन्नबोधः स त्वंपदाभिधः ॥ ४४ ॥
</verse>
<verse>मायोपाधिर्जगद्योनिः सर्वज्ञत्वादिलक्षणः ।
पारोक्ष्यशबलः सत्याद्यात्मकस्तत्पदाभिधः ॥ ४५ ॥
</verse>
<verse>प्रत्यक्परोक्षतैकस्य सद्वितीयत्वपूर्णता ।
न
विरुध्यते यतस्तस्माल्लक्षणा संप्रवर्तते ॥ ४६ ॥
</verse>
<verse>मानान्तरविरोधे तु मुख्यार्थस्यापरिग्रहे ।
मुख्यार्थेनाविनाभूते प्रतीतिर्लक्ष्णोच्यते ॥ ४७ ॥
</verse>
<verse>तत्त्वमस्यादिवाक्येषु लक्षणा भागलक्षणा ।
सोऽयमित्यादिवाक्यस्थपदयोरिव नापरा ॥ ४८ ॥
</verse>
<verse>अहं ब्रह्मेति वाक्यार्थबोधो यावद्दृढीभवेत् ।
शमादिसहितस्तावदभ्यस्येच्छ्रवणादिकम् ॥ ४९ ॥
</verse>
<verse>श्रुत्याचार्यप्रसादेन दृढो बोधो यदा भवेत् ।
निरस्ताशेषसंसारनिदानः पुरुषस्तदा ॥ ५० ॥
</verse>
<verse>विशीर्णकार्यकरणो भूतसूक्ष्मैरनावृतः ।
विमुक्तकर्मनिगलः सद्य एव विमुच्यते ॥ ५१ ॥
</verse>
</page>