2026-03-04 03:06:33 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>वाक्यवृत्तिः ।
1
२९</ignore>
<verse>त्वमर्थमेवं निश्चित्य तदर्थं चिन्तयेत्पुनः ।
अतद्वव्यावृत्तिरूपेण साक्षाद्विधिमुखेन च ॥ २८ ॥
</verse>
<verse>निरस्ताशेषसंसारदोषोऽस्थूलादिलक्षणः ।
अदृश्यत्वादिगुणकः पराकृततमोमलः ॥ २९ ।
</verse>
<verse>निरस्तातिशयानन्दः सत्यः प्रज्ञानविग्रहः ।
सत्तास्वलक्षणः पूर्णः परमात्मेति गीयते ॥ ३० ॥
</verse>
<verse>सर्वज्ञत्वं परेशत्वं तथा संपूर्णशक्तिता ।
वेदैः समर्ध्थ्यते यस्य तद्ब्रह्मेत्यवधारय ॥ ३१ ॥
.
</verse>
<verse>यज्ज्ञानात्सर्वविज्ञानं श्रुतिषु प्रतिपादितम् ।
मृदाद्यनेकदृष्टान्तैस्तद्ब्रह्मेत्यवधारय ॥ ३२ ॥
</verse>
<verse>यदानन्त्यं प्रतिज्ञाय श्रुतिस्तत्सिद्धये जगौ ।
तत्कार्यत्वं प्रपञ्चस्य तद्ब्रह्मेत्यवधारय ॥ ३३ ॥
</verse>
<verse>विजिज्ञास्यतया यश्च वेदान्तेषु मुमुक्षुभिः ।
समर्थ्यतेऽतियत्नेन तद्ब्रह्मेत्यवधारय ॥ ३४ ॥
</verse>
<verse>जीवात्मना प्रवेशश्वच नियन्तृत्वं च तान्प्रति ।
श्रूयते यस्य वेदेषु तद्ब्रह्मेत्यवधारय ॥ ३५ ॥
२९.
</verse>
</page>
<ignore>वाक्यवृत्तिः ।
1
२९</ignore>
<verse>त्वमर्थमेवं निश्चित्य तदर्थं चिन्तयेत्पुनः ।
अतद्
<verse>निरस्ताशेषसंसारदोषोऽस्थूलादिलक्षणः ।
अदृश्यत्वादिगुणकः पराकृततमोमलः ॥ २९ ।
<verse>निरस्तातिशयानन्दः सत्यः प्रज्ञानविग्रहः ।
सत्तास्वलक्षणः पूर्णः परमात्मेति गीयते ॥ ३० ॥
<verse>सर्वज्ञत्वं परेशत्वं तथा संपूर्णशक्तिता ।
वेदैः समर्
.
<verse>यज्ज्ञानात्सर्वविज्ञानं श्रुतिषु प्रतिपादितम् ।
मृदाद्यनेकदृष्टान्तैस्तद्ब्रह्मेत्यवधारय ॥ ३२ ॥
<verse>यदानन्त्यं प्रतिज्ञाय श्रुतिस्तत्सिद्धये जगौ ।
तत्कार्यत्वं प्रपञ्चस्य तद्ब्रह्मेत्यवधारय ॥ ३३ ॥
<verse>विजिज्ञास्यतया यश्च वेदान्तेषु मुमुक्षुभिः ।
समर्थ्यतेऽतियत्नेन तद्ब्रह्मेत्यवधारय ॥ ३४ ॥
<verse>जीवात्मना प्रवेशश्