2026-03-04 03:04:55 by akprasad
This page has been fully proofread once and needs a second look.
<ignore>२८
वाक्यवृत्तिः ।
<verse>अजडात्मवदाभान्ति यत्सांनिध्याज्जडा अपि ।
देहेन्द्रियमनः
<verse>अगमन्मे मनोऽन्यत्र सांप्रतं च स्थिरीकृतम् ।
एवं यो वेद धीवृत्तिं सोऽहमित्यवधारय ॥ २१ ॥
<verse>स्वप्नजागरिते सुप्तिं भावाभावौ धियां तथा ।
यो वेत्यविक्रियः साक्षात्सोऽहमित्यवधारय ॥ २२ ॥
<verse>घटावभासको दीपो घटादन्यो यथेष्यते ।
देहावभासको देही तथाहं बोधविग्रहः ॥ २३ ॥
<verse>पुत्रवित्तादयो भावा यस्य शेषतया प्रियाः ।
द्रष्टा सर्वप्रियतमः सोऽहमित्यवधारय ॥ २४ ॥
<verse>परप्रेमास्पदतया मा न भूवमहं सदा ।
भूयासमिति यो द्रष्टा सोऽहमित्यवधारय ॥ २५ ॥
<verse>यः साक्षिलक्षणो बोधस्त्वंपदार्थः स उच्यते ।
साक्षित्वमपि बोद्
<verse>देहेन्द्रियमनः
प्रोज्झिताशेषषड्भावविकारस्त्वंपदाभिधः ॥ २७ ॥
</page>