2026-03-04 03:03:08 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>वाक्यवृत्तिः ।
</ignore>
<ignore>२७
</ignore>
<verse>सत्यानन्दस्वरूपं धीसाक्षिणं ज्ञानविग्रहम् ।
चिन्तयात्मतया नित्यं त्यक्त्वा देहादिगां धियम् ॥ १२ ॥
</verse>
<verse>रूपादिमान्यतः पिण्डस्ततो नात्मा घटादिवत् ।
वियदादिमहाभूत विकारत्वाच्च कुम्भवत् ॥ १३ ॥
</verse>
<verse>अनात्मा यदि पिण्डोऽयमुक्तहेतुबलान्मतः ।
करामलकवत्साक्षादात्मानं प्रतिपादय ॥ १४॥
</verse>
<verse>घटद्रष्टा घटाद्भिन्नः सर्वथा न घटो यथा ।
tear
देहद्रष्टा तथा देहो नाहमित्यवधारय ॥ १५ ।
</verse>
<verse>एवमिन्द्रियदृङ् नाहमिन्द्रियाणीति निश्चिनु ।
मनो बुद्धिस्तथा प्राणो नाहमित्यवधारय ॥ १६॥
</verse>
<verse>संघातोऽपि तथा नाहमिति दृश्यविलक्षणम् ।
द्रष्टारमनुमानेन निपुणं संप्रधारय ॥ १७ ॥
</verse>
<verse>देहेन्द्रियादयो भावा. हानादिव्यापृतिक्षमाः ।
यस्य संनिधिमात्रेण सोऽहमित्यवधारय ॥ १८ ॥
</verse>
<verse>अनापन्नविकारः सन्नयस्कान्तवदेव यः ।
बुद्धध्यादींश्चालयेत्प्रत्यक्सोऽहमित्यवधारय ॥ १९ ॥
</verse>
</page>
<ignore>वाक्यवृत्तिः ।
<ignore>२७
<verse>सत्यानन्दस्वरूपं धीसाक्षिणं ज्ञानविग्रहम् ।
चिन्तयात्मतया नित्यं त्यक्त्वा देहादिगां धियम् ॥ १२ ॥
<verse>रूपादिमान्यतः पिण्डस्ततो नात्मा घटादिवत् ।
वियदादिमहाभूत
<verse>अनात्मा यदि पिण्डोऽयमुक्तहेतुबलान्मतः ।
करामलकवत्साक्षादात्मानं प्रतिपादय ॥ १४॥
<verse>घटद्रष्टा घटाद्भिन्नः सर्वथा न घटो यथा ।
tear
देहद्रष्टा तथा देहो नाहमित्यवधारय ॥ १५ ।
<verse>एवमिन्द्रियदृङ् नाहमिन्द्रियाणीति निश्चिनु ।
मनो बुद्धिस्तथा प्राणो नाहमित्यवधारय ॥ १६॥
<verse>संघातोऽपि तथा नाहमिति दृश्यविलक्षणम् ।
द्रष्टारमनुमानेन निपुणं संप्रधारय ॥ १७ ॥
<verse>देहेन्द्रियादयो भावा

बुद्
</page>