2026-02-24 05:23:00 by ambuda-bot
This page has not been fully proofread.
२६
वाक्यवृत्तिः ।
अनायासेन येनास्मान्मुच्येय भवबन्धनात् ।
तन्मे संक्षिप्य भगवन्केवलं कृपया वद ॥ ४ ॥
साध्वी ते वचनव्यक्तिः प्रतिभाति वदामि ते ।
इदं तदिति विस्पष्टं सावधानमनाः शृणु ॥ ५ ॥
तत्वमस्यादिवाक्योत्थं यज्जीवपरमात्मनोः ।
तादात्म्यविषयं ज्ञानं तदिदं मुक्तिसाधनम् ॥ ६ ॥
को जीवः कः परश्वात्मा तादात्म्यं वा कथं तयोः ।
तत्त्वमस्यादिवाक्यं वा कथं तत्प्रतिपादयेत् ॥ ७ ॥
अत्र ब्रूमः समाधानं कोऽन्यो जीवस्त्वमेव हि ।
यस्त्वं पृच्छसि मां कोऽहं ब्रह्मवासि न संशयः ॥ ८ ॥
पदार्थमेव जानामि नाद्यापि भगवन्स्फुटम् ।
अहं ब्रह्मेति वाक्यार्थ प्रतिपद्ये कथं वद ॥ ९ ॥
सत्यमाह भवानत्र विगानं नैव विद्यते ।
हेतुः पदार्थबोधो हि वाक्यार्थावगतेरिह ॥ १० ॥
अन्तःकरणतद्वृत्तिसाक्षी चैतन्यविग्रहः ।
}-
आनन्दरूपः सत्यः सन्किं नात्मानं प्रपद्यसे ॥ ११ ॥