2026-02-24 05:22:59 by ambuda-bot
This page has not been fully proofread.
॥ श्रीः ॥
॥ वाक्यवृत्तिः ॥
सर्गस्थितिप्रलयहेतुमचिन्त्यशक्ति
विश्वेश्वरं विदितविश्वमनन्तमूर्तिम् ।
निर्मुक्तबन्धनमपारसुखाम्बुराशि
श्रीवल्लभं विमलबोधघनं नमामि ॥ १ ॥
यस्य प्रसादादहमेव विष्णु-
मय्येव सर्व परिकल्पितं च ।
इत्थं विजानामि सदात्मरूपं
तस्यापि प्रणतोऽस्मि नित्यम् ॥ २ ॥
तापत्रयार्कसंतप्तः कश्चिदुद्विग्नमानसः ।
शमादिसाधनैर्युक्तः सद्गुरुं परिपृच्छति ॥ ३ ॥
॥ वाक्यवृत्तिः ॥
सर्गस्थितिप्रलयहेतुमचिन्त्यशक्ति
विश्वेश्वरं विदितविश्वमनन्तमूर्तिम् ।
निर्मुक्तबन्धनमपारसुखाम्बुराशि
श्रीवल्लभं विमलबोधघनं नमामि ॥ १ ॥
यस्य प्रसादादहमेव विष्णु-
मय्येव सर्व परिकल्पितं च ।
इत्थं विजानामि सदात्मरूपं
तस्यापि प्रणतोऽस्मि नित्यम् ॥ २ ॥
तापत्रयार्कसंतप्तः कश्चिदुद्विग्नमानसः ।
शमादिसाधनैर्युक्तः सद्गुरुं परिपृच्छति ॥ ३ ॥