2026-03-04 02:05:17 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>अपरोक्षानुभूतिः ।
</ignore>
<verse>निमेषार्धधं न तिष्ठन्ति वृत्तिं ब्रह्ममयीयीं विना ।
यथा तिष्ठन्ति ब्रह्माद्याः सनकाद्याः शुकादयः ॥ १३४ ॥
</verse>
<verse>कार्ये कारणतायाता कारणे न हि कार्यता1
।
कारणत्वं स्वतो गच्छेत्कार्याभावे विचारतः ॥ १३५ ॥
</verse>
<verse>अथ शुद्धं भवेद्वस्तु यद्वै वाचामगोचरः ।
द्रष्टव्यं मृद्घटेनैव दृष्टान्तेन पुनः पुनः ॥ १३६ ॥
</verse>
<verse>अनेनैव प्रकारेण वृत्तिर्ब्रह्मात्मिका भवेत् ।
उदेति शुद्धचित्तानां वृत्तिज्ञानं ततः परम् ॥ १३७ ॥
</verse>
<verse>कारणं व्यतिरेकेण पुमानादौ विलोकयेत् ।
अन्वयेन पुनस्तद्धि कार्ये नित्यं प्रपश्यति ॥ १३८ ॥
</verse>
<verse>कार्ये हि कारणं पश्येत्पश्चात्कार्ययं विसर्जयेत् ।
कारणत्वं स्वतो नश्येदवशिष्टं भवेन्मुनिः ॥ १३९ ॥
</verse>
<verse>भावितं तीव्रवेगेण वस्तु यन्निश्वचयात्मना ।
पुमांस्तद्धि भवेच्छीघ्रं ज्ञेयं भ्रमरकीटवत् ॥ १४० ॥
</verse>
<verse>अदृश्यं भावरूपं च सर्वमेतश्च्चिदात्मकम् ।
सावधानतया नित्यं स्वात्मानं भावयेद्बुधः ॥ १४१ ॥
</verse>
</page>
<ignore>अपरोक्षानुभूतिः ।
<verse>निमेषार्
यथा तिष्ठन्ति ब्रह्माद्याः सनकाद्याः शुकादयः ॥ १३४ ॥
<verse>कार्ये कारणतायाता कारणे न हि कार्यता
कारणत्वं स्वतो गच्छेत्कार्याभावे विचारतः ॥ १३५ ॥
<verse>अथ शुद्धं भवेद्वस्तु यद्वै वाचामगोचरः ।
द्रष्टव्यं मृद्घटेनैव दृष्टान्तेन पुनः पुनः ॥ १३६ ॥
<verse>अनेनैव प्रकारेण वृत्तिर्ब्रह्मात्मिका भवेत् ।
उदेति शुद्धचित्तानां वृत्तिज्ञानं ततः परम् ॥ १३७ ॥
<verse>कारणं व्यतिरेकेण पुमानादौ विलोकयेत् ।
अन्वयेन पुनस्तद्धि कार्ये नित्यं प्रपश्यति ॥ १३८ ॥
<verse>कार्ये हि कारणं पश्येत्पश्चात्कार्
कारणत्वं स्वतो नश्येदवशिष्टं भवेन्मुनिः ॥ १३९ ॥
<verse>भावितं तीव्रवेगेण वस्तु यन्निश्
पुमांस्तद्धि भवेच्छीघ्रं ज्ञेयं भ्रमरकीटवत् ॥ १४० ॥
<verse>अदृश्यं भावरूपं च सर्वमेत