This page has not been fully proofread.

अपरोक्षानुभूतिः ।
 
निमेषार्ध न तिष्ठन्ति वृत्तिं ब्रह्ममयी विना ।
 
यथा तिष्ठन्ति ब्रह्माद्याः सनकाद्याः शुकादयः ॥ १३४ ॥
 
कार्ये कारणतायाताकारणे न हि कार्यता 1
कारणत्वं स्वतो गच्छेत्कार्याभावे विचारतः ॥ १३५ ॥
 
अथ शुद्धं भवेद्वस्तु यद्वै वाचामगोचरः ।
 
द्रष्टव्यं मृटेनैव दृष्टान्तेन पुनः पुनः ॥ १३६ ॥
 
अनेनैव प्रकारेण वृत्तिर्ब्रह्मात्मिका भवेत् ।
 
उदेति शुद्धचित्तानां वृत्तिज्ञानं ततः परम् ॥ १३७ ॥
 
कारणं व्यतिरेकेण पुमानादौ विलोकयेत् ।
अन्वयेन पुनस्तद्धि कार्ये नित्यं प्रपश्यति ॥ १३८ ॥
 
कार्ये हि कारणं पश्येत्पश्चात्कार्य विसर्जयेत् ।
कारणत्वं स्वतो नश्येदवशिष्टं भवेन्मुनिः ॥ १३९ ॥
 
भावितं तीव्रवेगेण वस्तु यन्निश्वयात्मना ।
पुमांस्तद्धि भवेच्छीघ्रं ज्ञेयं भ्रमरकीटवत् ॥ १४० ॥
 
अदृश्यं भावरूपं च सर्वमेतश्चिदात्मकम् ।
 
सावधानतया नित्यं स्वात्मानं भावयेद्बुधः ॥ १४१ ॥