This page has not been fully proofread.

अपरोक्षानुभूतिः ।
 
ततः साधननिर्मुक्तः सिद्धो भवति योगिराट् ।
तत्स्वरूपं न चैकस्य विषयो मनसो गिराम् ॥ १२६ ॥
 
समाधयमाणे तु विघ्ना आयान्ति वै बलात् ।
अनुसंधानराहित्यमालस्यं भोगलालसम् ॥ १२७ ॥
 
लयस्तमश्च विक्षेपो रसास्वादश्व शून्यता ।
 
एवं यद्विघ्नबाहुल्यं त्याज्यं ब्रह्मविदा शनैः ॥ १२८ ॥
 
भाववृत्त्या हि भावत्वं शून्यवृत्त्या हि शून्यता ।
ब्रह्मवृत्त्या हि पूर्णत्वं तथा पूर्णत्वमभ्यसेत् ॥ १२९ ॥
 
ये हि वृत्तिं जहयेनां ब्रह्माख्यां पावनी पराम् ।
वृथैव ते तु जीवन्ति पशुभिश्च समा नराः ॥ १३० ॥
ये हि वृत्तिं विजानन्ति ये ज्ञात्वा वर्धयन्त्यपि ।
ते वै सत्पुरुषा धन्या वन्द्यास्ते भुवनत्रये ॥ १३१ ॥
येषां वृत्तिः समावृद्धा परिपक्का च सा पुनः ।
ते वै सतां प्राप्ता नेतरे शब्दवादिनः ॥ १३२ ॥
 
कुशला ब्रह्मवार्तायां वृत्तिहीनाः सुरागिणः ।
 
यज्ञानितमा नूनं पुनरायान्ति यान्ति च ॥ १३३ ॥