2026-02-24 05:22:58 by ambuda-bot
This page has not been fully proofread.
१८
अपरोक्षानुभूतिः ।
चित्तादिसर्वभावेषु ब्रह्मत्वेनैव भावनात् ।
निरोधः सर्ववृत्तीनां प्राणायामः स उच्यते ॥ ११८ ॥
निषेधनं प्रपञ्चस्य रेचकाख्यः समीरणः ।
ब्रह्मास्मीति या वृत्ति: पूरको वायुरीरितः ॥ ११९ ॥
ततस्तद्वृत्तिनैश्वल्यं कुम्भकः प्राणसंयमः ।
अयं चापि प्रबुद्धानामज्ञानां प्राणपीडनम् ॥ १२० ॥
विषयेष्वात्मतां दृष्ट्वा मनसश्चिति मज्जनम ।
प्रत्याहारः स विज्ञेयोऽभ्यसनीयो मुमुक्षुभिः ॥ १२१ ॥
यत्र यत्र मनो याति ब्रह्मणस्तत्र दर्शनात् ।
मनसो धारणायैव धारणा सा परा मता ॥ १२२ ॥
ब्रह्मैवास्मीति सद्वृत्त्या निरालम्बतया स्थितिः ।
ध्यानशब्देन विख्याता परमानन्ददायिनी ॥ १२३ ॥
निर्विकारतया वृत्त्या ब्रह्माकारतया पुनः ।
वृत्तिविस्मरणं सम्यक्समाधिर्ज्ञानसंज्ञकः ॥ १२४ ॥
एवं चाकृत्रिमानन्दं तावत्साधु समभ्यसेत् ।
वश्यो यावत्क्षणात्पुंसः प्रयुक्तः स भेवत्स्वयम् ॥। १२५ ॥