This page has not been fully proofread.

१६
 
अपरोक्षानुभूतिः ।
 
यमो हि नियमस्त्यागो मौनं देशश्च कालतः ।
 
आसनं मूलबन्धश्च देहसाम्यं च दृक्स्थितिः ॥ १०२ ॥
 
प्राणसंयमनं चैव प्रत्याहारश्च धारणा ।
 
आत्मध्यानं समाधिश्च प्रोक्तान्यङ्गानि वै क्रमात् ॥ १०३ ॥
 
सर्व ब्रह्मेति विज्ञानादिन्द्रियग्रामसंयमः ।
 
यमोऽयमिति संप्रोक्तोऽभ्यसनीयो मुहुर्मुहुः ॥ १०४ ॥
 
सजातीयप्रवाहश्च विजातीयतिरस्कृतिः ।
 
नियमो हि परानन्दो नियमात्क्रियते बुधैः ॥ १०५ ॥
 
त्यागः प्रपञ्चरूपस्य चिदात्मत्वावलोकनात् ।
 
त्यागो हि महतां पूज्यः सद्यो मोक्षमयो यतः ॥ १०६ ॥
 
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ।
 
यन्मौनं योगिभिर्गम्यं तद्भजेत्सर्वदा बुधः ॥ १०७ ॥
 
वाचो यस्मान्निवर्तन्ते तद्वक्तुं न शक्यते ।
 
प्रपञ्च यदि वक्तव्यः सोऽपि शब्दविवर्जितः ॥ १०८ ॥
 
इति वा तद्भवेन्मौनं सतां सहजसंज्ञितम् ।
 
गिरा मौनं तु बालानां प्रयुक्तं ब्रह्मवादिभिः ॥ १०९ ॥