This page has been fully proofread once and needs a second look.

<page>
<ignore>
१०
 
</ignore>
<ignore>
अपरोक्षानुभूतिः ।
 
</ignore>
<verse>
यस्मिन्सर्वाणि भूतानि ह्यात्मत्वेन विजानतः ।
 

न वै तस्य भवेन्मोहो न च शोकोऽद्वितीयतः ॥ ५४ ॥
 
</verse>
<verse>
अयमात्मा हि ब्रह्मैव सर्वात्मकतया स्थितः ।
 

इति निर्धारितं श्रुत्या बृहदारण्यसंस्थया ॥ ५५ ॥
 
</verse>
<verse>
अनुभूतोऽप्ययं लोको व्यवहारक्षमोऽपि सन् ।

असद्रूपो यथा स्वप्न उत्तरक्षणबाधतः ॥ ५६ ॥
 
</verse>
<verse>
स्वप्नो जागरणेऽलीक:कः स्वप्नेऽपि न हि जागरः ।

द्वयमेव लये नास्ति लयोऽपि ह्युभयोर्न च ॥ ५७ ॥
 
</verse>
<verse>
वयमेवं भवेन्मिथ्या गुणत्रयविनिर्मितम् ।
 

अस्य द्रष्टा गुणातीतो नित्यो ह्येकचिदात्मकः ॥ ५८ ॥
 
</verse>
<verse>
यद्वन्मृदि घटभ्रान्तितिं शुक्तौ वा रजतस्थितिम् ।

तद्व
द्ब्रह्मणि जीवत्वं भ्रान्त्या पश्यति न स्वतः ॥ ५९ ॥
 
</verse>
<verse>
यथा मृदि घटो नाम कनके कुण्डलाभिधा ।

शुक्तौ हि रजतख्यातिर्जीवशब्दस्तथा परे ॥ ६० ॥
 
</verse>
<verse>
यथैव व्योनि नीलत्वं यथा नीरं मरुस्थले ।
 

पुरुषत्वं यथा स्थाणौ तद्वद्विश्वं चिदात्मनि ॥ ६१ ॥
 
</verse>
</page>