This page has been fully proofread once and needs a second look.

<page>
<ignore>
अपरोक्षानुभूतिः ।
 
</ignore>
<verse>
व्याप्यव्यापकता मिथ्या सर्वमात्मेति शासनात् ।

इति ज्ञाते परे तत्त्वे भेदस्यावसरः कुतः ॥ ४६ ॥
 
</verse>
<verse>
श्रुत्या निवारितं नूनं नानात्वं स्वमुखेन हि ।

कथं भासो भवेदन्यः स्थिते चाद्वयकारणे ॥ ४७ ॥
 
</verse>
<verse>
दोषोऽपि विहितः श्रुत्या मृत्योर्मृत्युं स गच्छति ।

इह पश्यति नानात्वं मायया वश्विञ्चितो नरः ॥ ४८ ॥
 
</verse>
<verse>
ब्रह्मणः सर्वभूतानि जायन्ते परमात्मनः ।

तस्मादेतानि ब्रह्मैव भवन्तीत्यवधारयेत् ॥ ४९ ॥
 
</verse>
<verse>
ब्रह्मैव सर्वनामानि रूपाणि विविधानि च ।

कर्माण्यपि समप्ग्राणि विभर्तीति श्रुतिर्जगौ ॥ ५० ॥
 
</verse>
<verse>
सुवर्णाज्जायमानस्य सुवर्णत्वं च शाश्वतम् ।
 

ब्रह्मणो जायमानस्य ब्रह्मत्वं च तथा भवेत् ॥ ५१ ॥
 
</verse>
<verse>
स्वल्पमप्यन्तरं कृत्वा जीवात्मपरमात्मनोः ।
 

योऽवतिष्ठति मूढात्मा भयं तस्याभिभाषितम् ॥ ५२ ॥
 
</verse>
<verse>
यत्राज्ञानाद्भवेद्द्वैतमितरस्तत्र पश्यति ।
 

आत्मत्वेन यदा सर्वेवं नेतरस्तत्र चाण्वपि ॥ ५३॥
 
</verse>
</page>