This page has been fully proofread once and needs a second look.

<page>
<ignore>
अपरोक्षानुभूतिः ।
 
</ignore>
<verse>
प्रोक्तोऽपि कर्मकाण्डेन ह्यात्मा देहाद्विलक्षणः ।

नित्यश्च तत्फलं भुङ्क्ते देहपातादनन्तरम् ॥ ३८ ॥
 
</verse>
<verse>
लिङ्गं चानेकसंयुक्तं चलं दृश्यं विकारि च ।

अव्यापकमसद्रूपं तत्कथं स्यात्पुमानयम् ॥ ३९ ॥
 
</verse>
<verse>
एवं देहद्वयादन्य आत्मा पुरुष ईश्वरः ।

सर्वात्मा सर्वरूपश्च सर्वातीतोऽहमव्ययः ॥ ४० ॥
 
</verse>
<verse>
इत्यात्मदेहभानेन प्रपञ्चस्यैव सत्यता ।

यथोक्ता तर्कशास्त्रेण ततः किं पुरुषार्थता ॥ ४१ ॥
 
</verse>
<verse>
इत्यात्मदेहभेदेन देहात्मत्वं निवारितम् ।
 

इदानीं देहभेदस्य ह्यसत्त्वं स्फुटमुच्यते ॥ ४२ ॥
 
</verse>
<verse>
चैतन्यस्यैकरूपत्वाद्भेदो युक्तो न कर्हिचित् ।

जीवत्वं च मृषा ज्ञेयं रज्ज्वां सर्पग्रहो यथा ॥ ४३ ॥
 
</verse>
<verse>
रज्ज्वज्ञानात्क्षणेनैव यद्वद्ज्जुर्हि सर्पिणी ।
 

भाति तद्वश्च्चितिः साक्षाद्विश्वाकारेण केवला ॥ ४४ ॥
 
</verse>
<verse>
उपादानं प्रपञ्चस्य ब्रह्मणोऽन्यन्न विद्यते ।
 

तस्मात्सर्वप्रपञ्चोऽयं ब्रह्मैवास्ति न चेतरत् ॥ ४५ ॥
 
</verse>
</page>