This page has been fully proofread once and needs a second look.

<page>
<ignore>
अपरोक्षानुभूतिः ।
 
</ignore>
<verse>
स्वात्मानं शृणु मूर्ख त्वं श्रुत्या युक्त्या च पूरुषम् ।

देहातीतं सदाकारं सुदुर्दर्शं भवादृशाम् ॥ ३० ॥
 
</verse>
<verse>
अहंशब्देन विख्यात एक एव स्थितः परः ।

स्थूलत्वान्नैकतां प्राप्तः कथं स्याद्देहकः पुमान् <fix>॥</fix> ३१ ॥
</verse>
<verse>
अहं द्रष्टृतया सिद्धो देहो दृश्यतया स्थितः ।

ममायमिति निर्देशात्कथं स्याद्देहकः पुमान् ॥ ३२ ॥
 
</verse>
<verse>
अहं विकारहीनस्तु देहो नित्यं विकारवान् ।

इति प्रतीयते साक्षात्कथं स्याद्देहकः पुमान् ॥ ३३ ॥
 
</verse>
<verse>
यस्मात्परमिति श्रुत्या तथा पुरुषलक्षणम् ।

विनिर्णीतं विशुद्धेन कथं स्याद्देहकः पुमान् ॥ ३४ ॥
 
</verse>
<verse>
सर्
 
वं पुरुष एवेति सूक्ते पुरुषसंज्ञिते ।
 

अप्युच्यते यतः श्रुत्या कथं स्याद्देहकः पुमान् ॥ ३५ ॥
 
</verse>
<verse>
असङ्गः पुरुषः प्रोक्तो बृहदारण्यकेऽपि च ।

अनन्तमलसंसृष्टः कथं स्याद्देहकः पुमान् ॥ ३६ ॥
 
</verse>
<verse>
तत्रैव च समाख्यातः स्वयंज्योतिर्हि पुपूरुषः ।
 

जडः परप्रकाश्योऽयं कथं स्याद्देहकः पुमान् ॥ ३७ ॥
 
</verse>
</page>