This page has not been fully proofread.

अपरोक्षानुभूतिः ।
 
स्वात्मानं शृणु मूर्ख त्वं श्रुत्या युक्त्या च पूरुषम् ।
देहातीतं सदाकारं सुदुर्दर्श भवादृशाम् ॥ ३० ॥
 
अहंशब्देन विख्यात एक एव स्थितः परः ।
स्थूलत्वान्नैकतां प्राप्तः कथं स्याद्देहकः पुमान् ३१ ॥
अहं द्रष्टृतया सिद्धो देहो दृश्यतया स्थितः ।
ममायमिति निर्देशात्कथं स्याद्देहकः पुमान् ॥ ३२ ॥
 
अहं विकारहीनस्तु देहो नित्यं विकारवान् ।
इति प्रतीयते साक्षात्कथं स्याद्देहकः पुमान् ॥ ३३ ॥
 
यस्मात्परमिति श्रुत्या तथा पुरुषलक्षणम् ।
विनिर्णीतं विशुद्धेन कथं स्याद्देहकः पुमान् ॥ ३४ ॥
 
सर्व
 
पुरुष एवेति सूक्ते पुरुषसंज्ञिते ।
 
अप्युच्यते यतः श्रुत्या कथं स्याद्देहकः पुमान् ॥ ३५ ॥
 
असङ्गः पुरुषः प्रोक्तो बृहदारण्यकेऽपि च ।
अनन्तमलसंसृष्टः कथं स्याद्देहकः पुमान् ॥ ३६ ॥
 
तत्रैव च समाख्यातः स्वयंज्योतिर्हि पुरुषः ।
 
जडः परप्रकाश्योऽयं कथं स्याद्देहकः पुमान् ॥ ३७ ॥