2026-03-03 06:06:20 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>अपरोक्षानुभूतिः ।
</ignore>
<verse>अज्ञानप्रभवं सर्वं ज्ञानेन प्रविलीयते ।
संकल्पो विविधः कर्ता विचारः सोऽयमीदृशः ॥ १४ ॥
</verse>
<verse>एतयोर्यदुपादानमेकं सूक्ष्मं सदव्ययम् ।
यथैव मृद्घटादीनां विचारः सोऽयमीदृशः ॥ १५ ॥
</verse>
<verse>अहमेकोsऽपि सूक्ष्मश्च ज्ञाता साक्षी सदव्ययः ।
तदहं नात्र संदेहो विचारः सोऽयमीदृशः ॥ १६ ॥
</verse>
<verse>आत्मा विनिष्कलो ह्येको देहो बहुभिरावृतः ।
तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम् ॥ १७ ॥
</verse>
<verse>आत्मा नियामकश्चान्तर्देहो नियम्यबाह्यकः ।
तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम् ॥ १८ ॥
</verse>
<verse>आत्मा ज्ञानमयः पुण्यो देहो मांसमयोऽशुचिः ।
तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम् ॥ १९ ॥
</verse>
<verse>आत्मा प्रकाशक :कः स्वच्छो देहस्तामस उच्यते ।
तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम् ॥ २० ॥
</verse>
<verse>आत्मा नित्यो हि सद्रूपो देहोऽनित्यो ह्यसन्मयः ।
तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम् ॥ २१ ॥
</verse>
</page>
<ignore>अपरोक्षानुभूतिः ।
<verse>अज्ञानप्रभवं सर्वं ज्ञानेन प्रविलीयते ।
संकल्पो विविधः कर्ता विचारः सोऽयमीदृशः ॥ १४ ॥
<verse>एतयोर्यदुपादानमेकं सूक्ष्मं सदव्ययम् ।
यथैव मृद्घटादीनां विचारः सोऽयमीदृशः ॥ १५ ॥
<verse>अहमेको
तदहं नात्र संदेहो विचारः सोऽयमीदृशः ॥ १६ ॥
<verse>आत्मा विनिष्कलो ह्येको देहो बहुभिरावृतः ।
तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम् ॥ १७ ॥
<verse>आत्मा नियामकश्चान्तर्देहो नियम्यबाह्यकः ।
तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम् ॥ १८ ॥
<verse>आत्मा ज्ञानमयः पुण्यो देहो मांसमयोऽशुचिः ।
तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम् ॥ १९ ॥
<verse>आत्मा प्रकाश