2026-04-02 20:34:08 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>१८०
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।
</ignore>
<verse>मूढानां प्रतिबिम्बाददौ बालानामिव दृश्यते ।
सादृश्यं विद्यते बुद्धावात्मनोऽध्यासकारणम् ॥ ४८४ ॥
</verse>
<verse>अनात्मन्यमित्येव योऽयमध्यास ईरितः ।
स्यादुत्तरोत्तराध्यासे पूर्वपूर्वस्तु कारणम् ॥ ४८५ ॥
</verse>
<verse>सुप्तिमूर्छोत्थितेष्वेव दृष्टः संसारलक्षणः ।
अनादिरेषाविद्यातः संस्कारोऽपि च तादृशः ॥ ४८६ ॥
</verse>
<verse>अध्यासबाधागमनस्य कारणं
शृणु प्रवक्ष्यामि समाहितात्मा ।
यस्मादिदं प्राप्तमनर्थजातं
जन्माप्ययव्याधिजरादिदुःखम् ॥ ४८७ ॥
</verse>
<verse>आत्मोपाधेरविद्याया अस्ति शक्तिद्वयं महत् ।
विक्षेप आवृतिश्चेति याभ्यां संसारंर आत्मनः ॥ ४८८ ॥
</verse>
<verse>आवृतिस्तमसः शक्तिस्तद्ध्यावरणकारणम् ।
मूलाविद्येति सा प्रोक्ता यया संमोहितं जगत् ॥ ४८९ ॥
</verse>
<verse merge-next="true">विवेकवानप्यतियौक्तिकोऽपि
श्रुतात्मतत्त्वोऽपि च पण्डितोऽपि ।
</verse>
</page>
<ignore>१८०
<verse>मूढानां प्रतिबिम्बा
सादृश्यं विद्यते बुद्धावात्मनोऽध्यासकारणम् ॥ ४८४ ॥
<verse>अनात्मन्यमित्येव योऽयमध्यास ईरितः ।
स्यादुत्तरोत्तराध्यासे पूर्वपूर्वस्तु कारणम् ॥ ४८५ ॥
<verse>सुप्तिमूर्छोत्थितेष्वेव दृष्टः संसारलक्षणः ।
अनादिरेषाविद्यातः संस्कारोऽपि च तादृशः ॥ ४८६ ॥
<verse>अध्यासबाधागमनस्य कारणं
शृणु प्रवक्ष्यामि समाहितात्मा ।
यस्मादिदं प्राप्तमनर्थजातं
जन्माप्ययव्याधिजरादिदुःखम् ॥ ४८७ ॥
<verse>आत्मोपाधेरविद्याया अस्ति शक्तिद्वयं महत् ।
विक्षेप आवृतिश्चेति याभ्यां संसा
<verse>आवृतिस्तमसः शक्तिस्तद्ध्यावरणकारणम् ।
मूलाविद्येति सा प्रोक्ता यया संमोहितं जगत् ॥ ४८९ ॥
<verse merge-next="true">विवेकवानप्यतियौक्तिकोऽपि
श्रुतात्मतत्त्वोऽपि च पण्डितोऽपि ।
</page>