2026-03-04 05:21:55 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>दशश्लोकी ।
९९</ignore>
<verse>न जाग्रन्न मे स्वप्नको वा सुषुप्ति-
र्न विश्वो न वा तैजसः प्राज्ञको वा ।
अविद्यात्मकत्वात्त्रयाणां तुरीय-
स्तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ८ ॥</verse>
<verse>अपि व्यापकत्वाद्धि तत्त्वप्रयोगा-
त्स्वतः सिद्धभावादनन्याश्रयत्वात् ।
जगत्तुच्छमेतत्समस्तं तदन्य-
त्तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ९ ॥</verse>
<verse>न चैकं तदन्यद्द्वितीयं कुतः स्था-
न वा केवलत्वं न चाकेवलत्वम् ।
न शून्यं न चाशून्यमद्वैतकत्वा-
त्कथं सर्ववेदान्तसिद्धं ब्रवीमि ॥ १० ॥</verse>
<ptrailer>इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्द-
भगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ
दशश्लोकी समाप्ता ॥</ptrailer>
</page>
<ignore>दशश्लोकी ।
९९</ignore>
<verse>न जाग्रन्न मे स्वप्नको वा सुषुप्ति-
र्न विश्वो न वा तैजसः प्राज्ञको वा ।
अविद्यात्मकत्वात्त्रयाणां तुरीय-
स्तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ८ ॥</verse>
<verse>अपि व्यापकत्वाद्धि तत्त्वप्रयोगा-
त्स्वतः सिद्धभावादनन्याश्रयत्वात् ।
जगत्तुच्छमेतत्समस्तं तदन्य-
त्तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ९ ॥</verse>
<verse>न चैकं तदन्यद्द्वितीयं कुतः स्था-
न वा केवलत्वं न चाकेवलत्वम् ।
न शून्यं न चाशून्यमद्वैतकत्वा-
त्कथं सर्ववेदान्तसिद्धं ब्रवीमि ॥ १० ॥</verse>
<
भगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ
दशश्लोकी समाप्ता ॥</
</page>