This page has been fully proofread once and needs a second look.

<page>
<ignore>
९८
 
</ignore>
<ignore>
दशश्लोकी ।
 
</ignore>
<verse>
न सांख्यं न शैवं न तत्पाञ्चरात्रं
 

न जैनं न मीमांसकादेर्मतं वा ।

विशिष्टानुभूत्या विशुद्धात्मकत्वा-
 

तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ४ ॥
 
</verse>
<verse>
न चोर्ध्वं न चाधो न चान्तर्न बाह्यं
 

न मध्यं न तिर्यङ् न पूर्वापरा दिक् ।

वियद्व्यापकत्वादखण्डैकरूप-
 

स्तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ५ ॥
 
</verse>
<verse>
न शुक्लं न कृष्णं न रक्तं न पीतं
 

न कुब्जं न पीनं न ह्रस्वं न दीर्घम् ।
 

अरूपं तथा ज्योतिराकारकत्वा-
 

त्
तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ६ ॥
 
</verse>
<verse>
न शास्ता न शास्त्रं न शिष्यो न शिक्षा
 

न च त्वं न चाहं न चायं प्रपञ्चः ।

स्वरूपावबोधो विकल्पासहिष्णु-
 

स्तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ७ ॥
 
</verse>
</page>