Proofing

This page does not need to be proofread.

शं नो मित्रः शं वरुणः । शं नो
भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः ।
शं नो विष्णुरुरुक्रमः । नमो ब्रह्मणे ।
नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि ।
त्वमेव प्रत्यक्षं ब्रह्मवदिष्यामि । ऋतं
वदिष्यामि । सत्यं वदिष्यामि । तन्मा-
मवतु । तद्वक्तारमवतु । अवतु माम् ।
अवतु वक्तारम् ॥
 
ॐ शान्तिः शान्तिः शान्तिः ॥
 
सह नाववतु । सह नौ भुनक्तु ।
सह वीर्यं करवावहै । तेजस्वि नावधीत-
मस्तु मा विद्विषावहै ॥
 
ॐ शान्तिः शान्तिः शान्तिः ॥