Proofing

This page does not need to be proofread.

प्रमाणभाष्यम्
 
6
 
[ २ ]
 
'अहम्' 'मम' इत्यध्यासस्य अविद्यात्वप्रसि-
द्धया अध्यासत्वदृढीकरणपूर्वकम्, तन्मात्रव्यु -
त्पादने बीजस्याप्युद्घाटनम्
प्रत्यक्षानुमानादिभिरध्याससिद्धिः
 
३-४
 
अध्यासस्यानर्थहेतुतां दर्शयितुं तद्विशेषोदाहरणम्
विषयप्रयोजनदर्शन पूर्वकमारम्भसमर्थनम्
 
...
 
१. जिज्ञासाधिकरणम् - ब्रह्म जिज्ञासितव्यमिति ५ – ९
अध्ययनानन्तर्यपक्षं कर्मावबोधानन्तर्यपक्षं च प्रति-
क्षिप्य नियतपूर्ववृत्तसाधनचतुष्टय संपत्त्यानन्तर्य-
मेव अथ शब्दार्थ इति व्यवस्थापनम्
हेतुवाचकेन अतः शब्देन, ' तद्यथेह ' इत्यादिश्रुत्या
लक्षणया लब्धात्मकसाधनचतुष्टयसंपत्तिपरामर्श-
स्य उपपादनम्
 
ब्रह्मजिज्ञासा - पदस्य शेषषष्ठीगर्भे विग्रहं निराकृत्य
श्रुत्यनुगृहीतस्य कर्मषष्ठीगर्भस्य विग्रहस्य व्यव-
स्थापनम्
 
जिज्ञासापदावयवार्थः ; जिज्ञासितव्यमिति तव्य-
प्रत्ययेन सन्-प्रत्ययस्य विचारलक्षकत्वसूचनपूर्वकं
सूत्रवाक्यार्थश्च
 
सिद्धयसिद्धिभ्यां जिज्ञास्यत्वं व्याहतमित्याक्षिप्य