Original

अनिष्टम् अप्य् औषधम् आतुराय ददाति वैद्यश् च यथा निगृह्य ।तद्वन् मयोक्तं प्रतिकूलम् एतत् तुभ्यं हितोदर्कम् अनुग्रहाय ॥ ४८ ॥

Segmented

अनिष्टम् अपि औषधम् आतुराय ददाति वैद्यः च यथा निगृह्य तद्वत् मया उक्तम् प्रतिकूलम् एतत् तुभ्यम् हित-उदर्कम् अनुग्रहाय

Analysis

Word Lemma Parse
अनिष्टम् अनिष्ट pos=a,g=n,c=2,n=s
अपि अपि pos=i
औषधम् औषध pos=n,g=n,c=2,n=s
आतुराय आतुर pos=a,g=m,c=4,n=s
ददाति दा pos=v,p=3,n=s,l=lat
वैद्यः वैद्य pos=n,g=m,c=1,n=s
pos=i
यथा यथा pos=i
निगृह्य निग्रह् pos=vi
तद्वत् तद्वत् pos=i
मया मद् pos=n,g=,c=3,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
प्रतिकूलम् प्रतिकूल pos=a,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
हित हित pos=a,comp=y
उदर्कम् उदर्क pos=n,g=n,c=1,n=s
अनुग्रहाय अनुग्रह pos=n,g=m,c=4,n=s