Original

ततः पितामहं दृष्ट्वा वायुः पुत्रवधार्दितः ।शिशुकं तं समादाय उत्तस्थौ धातुरग्रतः ॥ १ ॥

Segmented

ततः पितामहम् दृष्ट्वा वायुः पुत्र-वध-अर्दितः शिशुकम् तम् समादाय उत्तस्थौ धातुः अग्रतः

Analysis

Word Lemma Parse
ततः ततस् pos=i
पितामहम् पितामह pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
वायुः वायु pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
वध वध pos=n,comp=y
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part
शिशुकम् शिशुक pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
समादाय समादा pos=vi
उत्तस्थौ उत्था pos=v,p=3,n=s,l=lit
धातुः धातु pos=n,g=m,c=1,n=s
अग्रतः अग्रतस् pos=i