Original

इतीव स महाबाहुः सीताहरणकर्शितः ।रामः सागरमासाद्य वासमाज्ञापयत्तदा ॥ ७१ ॥

Segmented

इति इव स महा-बाहुः सीता-हरण-कर्शितः रामः सागरम् आसाद्य वासम् आज्ञापयत् तदा

Analysis

Word Lemma Parse
इति इति pos=i
इव इव pos=i
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
सीता सीता pos=n,comp=y
हरण हरण pos=n,comp=y
कर्शितः कर्शय् pos=va,g=m,c=1,n=s,f=part
रामः राम pos=n,g=m,c=1,n=s
सागरम् सागर pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
वासम् वास pos=n,g=m,c=2,n=s
आज्ञापयत् आज्ञापय् pos=v,p=3,n=s,l=lan
तदा तदा pos=i