Original

ततः शिखरमारुह्य रामो दशरथात्मजः ।कूर्ममीनसमाकीर्णमपश्यत्सलिलाशयम् ॥ ६४ ॥

Segmented

ततः शिखरम् आरुह्य रामो दशरथ-आत्मजः कूर्म-मीन-समाकीर्णम् अपश्यत् सलिलाशयम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शिखरम् शिखर pos=n,g=n,c=2,n=s
आरुह्य आरुह् pos=vi
रामो राम pos=n,g=m,c=1,n=s
दशरथ दशरथ pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
कूर्म कूर्म pos=n,comp=y
मीन मीन pos=n,comp=y
समाकीर्णम् समाकृ pos=va,g=m,c=2,n=s,f=part
अपश्यत् पश् pos=v,p=3,n=s,l=lan
सलिलाशयम् सलिलाशय pos=n,g=m,c=2,n=s