Original

मेघाः क्रव्यादसंकाशाः परुषाः परुषस्वनाः ।क्रूराः क्रूरं प्रवर्षन्ति मिश्रं शोणितबिन्दुभिः ॥ ५ ॥

Segmented

मेघाः क्रव्याद-संकाशाः परुषाः परुष-स्वनाः क्रूराः क्रूरम् प्रवर्षन्ति मिश्रम् शोणित-बिन्दुभिः

Analysis

Word Lemma Parse
मेघाः मेघ pos=n,g=m,c=1,n=p
क्रव्याद क्रव्याद pos=n,comp=y
संकाशाः संकाश pos=n,g=m,c=1,n=p
परुषाः परुष pos=a,g=m,c=1,n=p
परुष परुष pos=a,comp=y
स्वनाः स्वन pos=n,g=m,c=1,n=p
क्रूराः क्रूर pos=a,g=m,c=1,n=p
क्रूरम् क्रूर pos=a,g=n,c=2,n=s
प्रवर्षन्ति प्रवृष् pos=v,p=3,n=p,l=lat
मिश्रम् मिश्र pos=a,g=m,c=2,n=s
शोणित शोणित pos=n,comp=y
बिन्दुभिः बिन्दु pos=n,g=m,c=3,n=p