Original

महाञ्शब्दोऽभवत्तत्र बलौघस्याभिवर्ततः ।सागरस्येव भिन्नस्य यथा स्यात्सलिलस्वनः ॥ ४५ ॥

Segmented

महाञ् शब्दो ऽभवत् तत्र बल-ओघस्य अभिवृत् सागरस्य इव भिन्नस्य यथा स्यात् सलिल-स्वनः

Analysis

Word Lemma Parse
महाञ् महत् pos=a,g=m,c=1,n=s
शब्दो शब्द pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
बल बल pos=n,comp=y
ओघस्य ओघ pos=n,g=m,c=6,n=s
अभिवृत् अभिवृत् pos=va,g=m,c=6,n=s,f=part
सागरस्य सागर pos=n,g=m,c=6,n=s
इव इव pos=i
भिन्नस्य भिद् pos=va,g=m,c=6,n=s,f=part
यथा यथा pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
सलिल सलिल pos=n,comp=y
स्वनः स्वन pos=n,g=m,c=1,n=s