Original

गतासुं वालिनं दृष्ट्वा राघवस्तदनन्तरम् ।अब्रवीत्प्रश्रितं वाक्यं सुग्रीवं शत्रुतापनः ॥ १ ॥

Segmented

गतासुम् वालिनम् दृष्ट्वा राघवस् तद्-अनन्तरम् अब्रवीत् प्रश्रितम् वाक्यम् सुग्रीवम् शत्रु-तापनः

Analysis

Word Lemma Parse
गतासुम् गतासु pos=a,g=m,c=2,n=s
वालिनम् वालिन् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
राघवस् राघव pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
अनन्तरम् अनन्तर pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
प्रश्रितम् प्रश्रित pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
शत्रु शत्रु pos=n,comp=y
तापनः तापन pos=a,g=m,c=1,n=s