Original

ततोऽपि शिशुनागानामाक्रन्दः श्रूयते महान् ।क्रीडतां राम पम्पायां मतङ्गारण्यवासिनाम् ॥ २७ ॥

Segmented

ततो ऽपि शिशुनागानाम् आक्रन्दः श्रूयते महान् क्रीडताम् राम पम्पायाम् मतंग-अरण्य-वासिनाम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽपि अपि pos=i
शिशुनागानाम् शिशुनाग pos=n,g=m,c=6,n=p
आक्रन्दः आक्रन्द pos=n,g=m,c=1,n=s
श्रूयते श्रु pos=v,p=3,n=s,l=lat
महान् महत् pos=a,g=m,c=1,n=s
क्रीडताम् क्रीड् pos=va,g=m,c=6,n=p,f=part
राम राम pos=n,g=m,c=8,n=s
पम्पायाम् पम्पा pos=n,g=f,c=7,n=s
मतंग मतंग pos=n,comp=y
अरण्य अरण्य pos=n,comp=y
वासिनाम् वासिन् pos=a,g=m,c=6,n=p