Original

तथा तु दीनं कथयन्नराधिपः प्रियस्य पुत्रस्य विवासनातुरः ।गतेऽर्धरात्रे भृशदुःखपीडितस्तदा जहौ प्राणमुदारदर्शनः ॥ ५७ ॥

Segmented

तथा तु दीनम् कथयन् नराधिपः प्रियस्य पुत्रस्य विवासन-आतुरः गते ऽर्धरात्रे भृश-दुःख-पीडितः तदा जहौ प्राणम् उदार-दर्शनः

Analysis

Word Lemma Parse
तथा तथा pos=i
तु तु pos=i
दीनम् दीन pos=a,g=n,c=2,n=s
कथयन् कथय् pos=va,g=m,c=1,n=s,f=part
नराधिपः नराधिप pos=n,g=m,c=1,n=s
प्रियस्य प्रिय pos=a,g=m,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
विवासन विवासन pos=n,comp=y
आतुरः आतुर pos=a,g=m,c=1,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
ऽर्धरात्रे अर्धरात्र pos=n,g=m,c=7,n=s
भृश भृश pos=a,comp=y
दुःख दुःख pos=n,comp=y
पीडितः पीडय् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
जहौ हा pos=v,p=3,n=s,l=lit
प्राणम् प्राण pos=n,g=m,c=2,n=s
उदार उदार pos=a,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s