Original

ततो न्यग्रोधमासाद्य महान्तं हरितच्छदम् ।विवृद्धं बहुभिर्वृक्षैः श्यामं सिद्धोपसेवितम् ॥ ४ ॥

Segmented

ततो न्यग्रोधम् आसाद्य महान्तम् हरितच्छदम् विवृद्धम् बहुभिः वृक्षैः श्यामम् सिद्ध-उपसेवितम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
न्यग्रोधम् न्यग्रोध pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
महान्तम् महत् pos=a,g=m,c=2,n=s
हरितच्छदम् हरितच्छद pos=n,g=m,c=2,n=s
विवृद्धम् विवृध् pos=va,g=m,c=2,n=s,f=part
बहुभिः बहु pos=a,g=m,c=3,n=p
वृक्षैः वृक्ष pos=n,g=m,c=3,n=p
श्यामम् श्याम pos=a,g=m,c=2,n=s
सिद्ध सिद्ध pos=n,comp=y
उपसेवितम् उपसेव् pos=va,g=m,c=2,n=s,f=part