Original

सभार्यं संप्रसुप्तं तं भ्रातरं वीक्ष्य लक्ष्मणः ।कथयामास सूताय रामस्य विविधान्गुणान् ॥ १३ ॥

Segmented

स भार्यम् संप्रसुप्तम् तम् भ्रातरम् वीक्ष्य लक्ष्मणः कथयामास सूताय रामस्य विविधान् गुणान्

Analysis

Word Lemma Parse
pos=i
भार्यम् भार्या pos=n,g=m,c=2,n=s
संप्रसुप्तम् संप्रस्वप् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
वीक्ष्य वीक्ष् pos=vi
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
कथयामास कथय् pos=v,p=3,n=s,l=lit
सूताय सूत pos=n,g=m,c=4,n=s
रामस्य राम pos=n,g=m,c=6,n=s
विविधान् विविध pos=a,g=m,c=2,n=p
गुणान् गुण pos=n,g=m,c=2,n=p