Original

शनैर्वियुज्यते संध्या नभो नेत्रैरिवावृतम् ।नक्षत्रतारागहनं ज्योतिर्भिरवभासते ॥ १६ ॥

Segmented

शनैः वियुज्यते संध्या नभो नेत्रैः इव आवृतम् नक्षत्र-तारा-गहनम् ज्योतिर्भिः अवभासते

Analysis

Word Lemma Parse
शनैः शनैस् pos=i
वियुज्यते वियुज् pos=v,p=3,n=s,l=lat
संध्या संध्या pos=n,g=f,c=1,n=s
नभो नभस् pos=n,g=n,c=1,n=s
नेत्रैः नेत्र pos=n,g=m,c=3,n=p
इव इव pos=i
आवृतम् आवृ pos=va,g=n,c=1,n=s,f=part
नक्षत्र नक्षत्र pos=n,comp=y
तारा तारा pos=n,comp=y
गहनम् गहन pos=n,g=n,c=1,n=s
ज्योतिर्भिः ज्योतिस् pos=n,g=n,c=3,n=p
अवभासते अवभास् pos=v,p=3,n=s,l=lat